{"type":"rich","version":"1.0","provider_name":"Transistor","provider_url":"https://transistor.fm","author_name":"बालमोदिनी","title":"समस्यापरिहारः","html":"<iframe width=\"100%\" height=\"180\" frameborder=\"no\" scrolling=\"no\" seamless src=\"https://share.transistor.fm/e/48e7f126\"></iframe>","width":"100%","height":180,"duration":163,"description":"कश्चन जनः बह्वीभिः समस्याभिः ग्रस्तः आसीत् । समस्यानां परिहारस्य मार्गं ज्ञातुम् इच्छन् सः कस्यचित् महात्मनः आश्रमं गत्वा मार्गदर्शनं क्रियताम् इति प्रार्थयति । बहुधा पृष्टः अपि महात्मा किमपि उत्तरं न अवदत् । अन्ते महात्मनः मौनप्रतिस्पन्दनं सोढुम् अशक्नुवन् सः जनः अवदत् 'भवान् तु किमपि अवदन् मयि उपेक्षां दर्शयति । समस्यानां परिहाराय अहमेव मार्गं चिन्तयिष्यामि । शरीरे शक्तिः अस्ति । मयि बुद्धिमत्ता अपि अस्ति । तयोः उपयोगेन स्वयम् एव किमपि करिष्यामि' इति । तदा महात्मा - 'स्वसमस्याः स्वयमेव सम्मुखीकरिष्यामि इति उदितः भावः एव सर्वाः समस्याः परिहरिष्यति । एतं भावं पोषयन् अग्रे गच्छ' इति अवदत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)","thumbnail_url":"https://img.transistorcdn.com/NhqJWdG4A6JsVxOcfUcfHg1jbMNb-4isfbIwQ4T-Rac/rs:fill:0:0:1/w:400/h:400/q:60/mb:500000/aHR0cHM6Ly9pbWct/dXBsb2FkLXByb2R1/Y3Rpb24udHJhbnNp/c3Rvci5mbS8wZTI4/YzkzNmVjMzg5NTZm/ZjQxZDc1YTI0Y2I5/MzU0NS5qcGc.webp","thumbnail_width":300,"thumbnail_height":300}