{"type":"rich","version":"1.0","provider_name":"Transistor","provider_url":"https://transistor.fm","author_name":"बालमोदिनी","title":"समयप्रज्ञा","html":"<iframe width=\"100%\" height=\"180\" frameborder=\"no\" scrolling=\"no\" seamless src=\"https://share.transistor.fm/e/a1816957\"></iframe>","width":"100%","height":180,"duration":218,"description":"कश्चन बुद्धिमान् युवकः दुर्गादासः कदाचित् रात्रौ 'चोरः चोरः' इति चीत्कारं कृतवान् । तदा ग्रामीणाः सर्वविधानि आयुधानि स्वीकृत्य चोरं ग्रहीतुम् आगतवन्तः । किन्तु न्यग्रोधवृक्षस्य पुरतः महान् व्याघ्रः तैः दृष्टः । अनुक्षणमेव सर्वे मिलित्वा लवित्रैः दण्डैश्च तं मारितवन्तः । अनन्तरं जनाः 'किमर्थं चोरः इति उक्तवान् भवान्' इति यदा अपृच्छन् तदा मन्दहासपूर्वकं अवदत् दुर्गादासः 'चोरः इति मत्वा भवन्तः सर्वे गृहात् बहिः आगतवन्तः । यदि अहं व्याघ्रः इति आक्रोशम् अकरिष्यं तर्हि भवन्तः सर्वे आगमिष्यन् ? अतः एव अहं चोरः चोरः इति आक्रुष्टवान्' इति । सर्वे दुर्गादासस्य समयप्रज्ञां श्लाघितवन्तः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)One night, a clever young man named Durgadas shouted, \"Thief! Thief!\" Hearing this, the villagers rushed out with weapons to catch the thief. However, instead of a thief, they found a fierce tiger near a banyan tree. Immediately, they united and killed the tiger with axes and sticks. Later, they asked Durgadas why he had shouted \"Thief!\" instead of \"Tiger!\" Smiling, he replied, \"Had I shouted 'Tiger,' would you all have come out? But by saying 'Thief,' I ensured everyone rushed out\". The villagers praised his wisdom and presence of mind.","thumbnail_url":"https://img.transistorcdn.com/NhqJWdG4A6JsVxOcfUcfHg1jbMNb-4isfbIwQ4T-Rac/rs:fill:0:0:1/w:400/h:400/q:60/mb:500000/aHR0cHM6Ly9pbWct/dXBsb2FkLXByb2R1/Y3Rpb24udHJhbnNp/c3Rvci5mbS8wZTI4/YzkzNmVjMzg5NTZm/ZjQxZDc1YTI0Y2I5/MzU0NS5qcGc.webp","thumbnail_width":300,"thumbnail_height":300}