{"type":"rich","version":"1.0","provider_name":"Transistor","provider_url":"https://transistor.fm","author_name":"बालमोदिनी","title":"उत्तमा नीतिः उत्कृष्टेन क्रमेण","html":"<iframe width=\"100%\" height=\"180\" frameborder=\"no\" scrolling=\"no\" seamless src=\"https://share.transistor.fm/e/ba1ea233\"></iframe>","width":"100%","height":180,"duration":163,"description":"कदाचित् कश्चन राजा वैराग्यं प्राप्य संन्यासी जातः । भिक्षाटनसमये काचित् माता तस्मै त्रीन् तण्डुलकणान् दत्तवती । त्रीन् अंशान् ज्ञापयितुं त्रयः तण्डुलकणाः दत्ताः इति उक्त्वा ते च के इति कथयति सा । 'कामक्रोधलोभमोहादयः शत्रवः यदि भवता दूरे स्थाप्येरन् तर्हि भवतः सुरक्षितता सिद्धा । प्रतिदिनं परिश्रमः, योग्याभ्यासः इत्यादयः नियततया कृताः चेत् महती बुभुक्षा बाधते । तदा शुष्का रोटिका अपि परमस्वादुतया भासते । यदा शरीरश्रमः अधिकः भवेत् तदा एव  सुखनिद्रा प्राप्येत । अतः शरीरश्रमः भवतः अधिकः भवेत् सर्वदा' इति । 'उत्तमा नीतिः उत्कृष्टेन क्रमेण ज्ञापिता भवत्या' इति उक्त्वा राजा तां कृतज्ञतापूर्वकं नमस्कृत्य ततः अग्रे गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a king renounced the world and became a monk. While begging, a mother gave him three grains of rice. She explained: ‘These three grains symbolize three lessons. First, if you keep away enemies like desire, anger, greed, and delusion, you will be safe. Second, with daily effort and disciplined practice, even a dry bread tastes sweet when hunger is great. Third, when the body is well-exerted, only then comes peaceful sleep. Therefore, let hard work always be your companion’. The king, moved by her wise teaching, bowed with gratitude and went on his way.","thumbnail_url":"https://img.transistorcdn.com/NhqJWdG4A6JsVxOcfUcfHg1jbMNb-4isfbIwQ4T-Rac/rs:fill:0:0:1/w:400/h:400/q:60/mb:500000/aHR0cHM6Ly9pbWct/dXBsb2FkLXByb2R1/Y3Rpb24udHJhbnNp/c3Rvci5mbS8wZTI4/YzkzNmVjMzg5NTZm/ZjQxZDc1YTI0Y2I5/MzU0NS5qcGc.webp","thumbnail_width":300,"thumbnail_height":300}