बालमोदिनी

कृषौ यथाकालं कार्याणि करणीयानि । अन्यथा कृषिः विनश्यति । यथाकालम् अकृतं कार्यं फलं न दादाति । कस्मिंश्चित् राज्ये यद्यपि विशालं कृषिक्षेत्रम् आसीत् तथापि तत् शुष्कम् । कश्चन कृषिकः भूमिगुणम् अधीत्य कृषिम् आरब्धवान् । अन्यान् अपि प्रेरितवान् । तस्मात् पञ्चवर्षाभ्यन्तरे राज्यस्थानि सर्वाणि कृषिक्षेत्राणि धान्यसम्पन्नानि जातानि ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Farm work must be done at the proper time; otherwise, farming suffers. Work that is not done on time does not give good results. In a certain kingdom, there was a large farming area, but it was dry and unproductive. A farmer studied the nature of the soil and began farming properly. He also encouraged others to do the same. As a result, within five years, all the farmlands in the kingdom became rich in crops and grain.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.