गुरुनानकः कदाचित् यदा प्रियशिष्येण मरदानेन सह विन्ध्याचलपरिसरे गच्छन् आसीत् तदा केचन वन्यजातीयाः मरदानं बद्ध्वा भैरवीगुहां प्रति बलिरूपेण नीतवन्तः । भैरव्याः अर्चकः तस्य मारणाय शूलं गृहीत्वा आगतः। तदा 'वाहे गुरु' इति ध्वनिः श्रुतः । एतस्य श्रवणात् अर्चके विलक्षणं परिवर्तनं दृष्टम् । एतत् दृष्ट्वा वन्यजातीयानां नायकः क्रोद्धेन 'भवान् कः?' इति अपृच्छत् । 'अहं भवान् इव मानवः अस्मि' इति गुरुनानकः अवदत् । तदनन्तरं तयोर्मध्ये यत् सम्भाषणं जातं तेन वन्यजातीनायकस्य न केवलं हृदयं द्रुतम् अपि तु तस्मिन् परिवर्तनम् अपि जातम् । सः गुरुनानकं शरणम् अगच्छत् । अन्ये सर्वे वन्यजातीयाः अपि नानकस्य शिष्याः अभवन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Guru Nanak was traveling with his beloved disciple Mardana in the Vindhyachal region. Some tribal people captured Mardana and took him to a Bhairavi cave as a sacrificial offering. The priest of Bhairavi, holding a trident, approached to kill him. At that moment, the sound of "Waheguru" was heard. Upon hearing this, the priest underwent a remarkable change. Observing this, the leader of the tribal people angrily asked, "Who are you?" Guru Nanak replied, "I am a human like you." Thereafter, the conversation that took place between them not only melted the heart of the tribal leader but also brought about a change in him. He sought refuge in Guru Nanak. All the other tribal people also became disciples of Guru Nanak.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.