पिप्पलः नाम कश्चन संन्यासी तपः आचर्य इन्द्रात् वरं प्राप्य अहङ्कारी जातः । कदाचित् पितामहः ब्रह्मा 'एतस्य अहङ्कारः निवारणीयः' इति विचिन्त्य सारसरूपं धृत्वा पिप्पलस्य समीपम् आगत्य 'भवान् किमर्थम् आत्मानं श्रेष्ठं मन्यते । कुण्डलस्य पुत्रः सुकर्मा यद्यपि तपः न आचरितवान् भवदपेक्षया ज्ञानी अस्ति' इति । आश्चर्यभरितः पिप्पलः सुकर्मणः समीपं गत्वा तस्य ज्ञानस्य रहस्यम् अपृच्छत् । तदा सुकर्मा अवदत् 'अहं चिन्तयामि यत् मातापित्रोः सेवायाः परिणामतः एव अहं कामपि सिद्धिं प्राप्तवान्' इति । एतत् श्रुत्वा पिप्पलस्य ज्ञाननेत्रे उद्घाटिते । गर्वस्य अपगमनेन सः विनयशीलः सञ्जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A sage named Pippala, after receiving a boon from Indra, became arrogant due to his intense penance. Seeing this, Brahma decided to humble him. Disguised as a learned man, Brahma approached Pippala and said, "Why do you consider yourself superior? Though Kundala’s son, Sukarma, has not performed penance, he possesses greater wisdom than you". Amazed, Pippala went to Sukarma and asked about the secret of his knowledge. Sukarma replied, "I believe that my wisdom is the result of serving my parents with devotion". Hearing this, Pippala’s eyes were opened to true wisdom. Shedding his arrogance, he became humble and virtuous.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.