बालमोदिनी

चन्द्रनामा चोरः चौर्यकर्मकलाकोविदः एकदा लक्षाधिकानि रूप्यकाणि चोरयित्वा सुरक्षिते स्थले संस्थाप्य निश्चिन्तः अभवत् । तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । अतः सः विष्णुमन्दिरं गत्वा समग्रं धनं देवाय अर्पितवान् ।  ततः तेन विलक्षणः आनन्दः महती तृप्तिः च अनुभूता । मरणानन्तरं यमभटैः सः चित्रगुप्तस्य समीपं नीतः यत्र तस्य पापपुण्यादिविवरणं परिशीलितम् । चित्रगुप्तः अवदत् यत् तस्य चौर्यकर्मणः निमित्तं मासात्मकः नरकवासः दण्डः भवेत् । 'चोरितं धनं भगवते अर्पितम् अतः पापं क्षालितं भवेत्' इति चन्द्रेण उक्ते चित्रगुप्तः अवदत् 'यत् पापम् आचरितं तस्य दण्डः अनिवार्यः । अनन्तरम् एव पुण्यकर्मणः फलम् अनुभूयेत' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Chandra, a thief skilled in the art of theft, once stole a large amount of money and kept it in a safe place. He saw the image of Vishnu, the family deity in his dreams. Therefore, he went to Vishnu's temple and offered all the money to the deity. He experienced immense joy and great satisfaction from this virtuous act. After his death, he was taken by Yama's attendants to Chitragupta, where his sins and merits were reviewed. Chitragupta declared that Chandra would be punished with a month's stay in hell for his theft. When Chandra asked if offering the stolen money to God would cleanse his sin, Chitragupta replied that the punishment for the committed sin was inevitable. Only after serving the punishment would he experience the fruits of his good deed.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.