बालमोदिनी

इस्लामिकैः पारसदेशः यदा आक्रान्तः तदा ३०० परिवारजनाः स्वदेशत्यागं कृत्वा जलमार्गेण भारत्वर्षं प्राप्नुवन् । समुद्रतटे स्थितं सञ्जाणनगरं समागत्य प्रधानपुरोहितस्य नेतृत्वे ते तत्रत्यं राजानम् अग्निप्रतिष्ठापनार्थं देवालयं, निवासार्थं साधारणगृहाणि, उदरम्भरणाय कृषिभूमिं प्रार्थितवन्तः । राजा अवदत् 'सर्वविधानाम् अपेक्षाणां पूरणम् अपि प्रतिज्ञातम् । प्रतिफलरूपेण भवन्तः अस्मै देशाय किं दातुम् इच्छन्ति?’ इति । तदा प्रधानपुरोहितः 'एतादृशसमाजे दुग्धे शर्करावत् वयं सम्मिलिताः भविष्यामः' इति । तदनन्तरं शतकानि यावत् पारसिकाः भारतीयसमाजे पूर्णरूपेण विलीनाः अभवन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When Persia was invaded by the Islamic forces, three hundred families left their homeland and reached India by sea. Arriving at the coastal town of Sanjan, under the leadership of their chief priest, they requested the local king to grant them land for building a temple to consecrate fire, houses for residence, and fields for cultivation to sustain themselves. The king said: “I promise to fulfill all your requests. But in return, what will you give to this land?” Then the chief priest replied: “We shall blend into this society like sugar in milk”. From that time onward, for centuries, the Persians (Parsis) became completely integrated into Indian society.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.