बालमोदिनी

भारतस्य राष्ट्रपतिः डा.राजेन्द्रप्रसादमहोदयः कदाचित् दिल्लीविश्वविद्यालयस्य समारम्भे भागम् अवहत् । समारम्भानन्तरं छात्राः राजेन्द्रप्रसादमहोदयस्य हस्ताक्षरं प्रार्थितवन्तः । सन्तोषेण अङ्गीकृतवान् । कश्चन छात्रः विनोदाय स्वपुस्तके 'स्वर्गस्य राज्यपालत्वेन नियोजनम्' इति लिखित्वा हस्ताक्षराय अयच्छत् । किमपि अवदन् राजेन्द्रप्रसादमहोदयः वाक्यद्वयं लिखित्वा तत् पुस्तकं तस्मै प्रत्यार्पयत् । तत्र लिखितस्य पठनात् छात्रस्य मुखं विवर्णं जातम् । किं लिखितं स्यात् महोदयेन इति जिज्ञासायां कथाम् इमां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The President of India, Dr. Rajendra Prasad, once attended a function at Delhi University. After the event, students requested Dr. Rajendra Prasad's autograph, which he gladly accepted. One student, for fun, wrote "appointed as the Governor of Heaven" in his book and handed it to Dr. Rajendra Prasad for his autograph. Dr. Rajendra Prasad wrote something and returned the book to the student. Reading what was written, the student's face turned pale. Curious to know what Dr. Rajendra Prasad wrote? Listen to this story to find out.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.