बालमोदिनी

कदाचित् कश्चन भ्रमणसमये कूपे अपतत् । तं रक्षितुं कश्चन महापुरुषः आगतवान् । सः ग्रन्थिकायुक्तां रज्जुं कूपस्य अन्तः क्षिप्त्वा अवदत् 'ग्रन्थिकां गृहीत्वा त्वम् उपरि आगच्छ' इति । कूपे स्थितस्य कृषिकस्य मनसि संशयः आसीत् । अतः सः अपृच्छत् 'कर्षणसमये रज्जुः भग्ना भवेत् चेत्?’ इति । 'रज्जुः अस्ति शक्तियुक्ता' इति महापुरुषेण उक्ते अपि पुनः पुनः नैकविधान् संशयान् प्रकटयति सः कृषिकः । महापुरुषस्य वचने कृषिकेण विश्वासः न प्राप्तः एव । अतः कृषिकः कूपे एव मरणं प्राप्तवान् ।

(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a traveler fell into a well. A saint came to rescue him, throwing down a rope with knots and saying: ‘Hold the knots and climb up’. But the man, full of doubt, asked: ‘What if the rope breaks while pulling?’ Though the saint assured him of its strength, the man kept raising new doubts and never trusted the words. Lacking faith, he remained in the well and died there.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.