बालमोदिनी

बालमोदिनी Trailer Bonus Episode 62 Season 1

श्रेष्ठः उपकारः

00:00
अरिदमननामकस्य कस्यचन राज्ञः पञ्च पत्न्यः आसन् । तासु पञ्चम्यां तस्य अनादरः आसीत्। यतः सा निर्धनकुले जाता इति । कस्मिंश्चित् दिने मरणदण्डनं प्राप्तवान् चोरः एकं दिनं वा सन्तोषम् अनुभूय मरणं प्राप्नोतु इति राज्ञीभिः प्रार्थितम् । तथैव चतस्रः राज्ञ्यः सहस्राधिकं सुवर्णनाणकानि, उत्तमवस्त्राणि, उत्तम्भोजनादिकं चोराय अयच्छन् । किन्तु पञ्चमी राज्ञी सामान्यभोजनं दत्त्वा वदति - 'चौर्यं निन्द्यं कर्म । तत् परित्यज्यताम्' । चोरः तां भक्त्या प्रणम्य चौर्यत्यागं करोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain king named Aridaman had five wives. He had less respect towards the fifth wife, as she was born into a poor family. One day, the queens requested the King that a thief who had been sentenced to death be allowed to experience one day of happiness before his death. In this way, the four queens gave him more than a thousand gold coins, fine clothes, and a luxurious meal. However, the fifth queen, offering him simple food, said, "Robbery is an unacceptable act. Abandon it." The thief, bowing to her with respect, gave up his life of crime.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.