बालमोदिनी

बालमोदिनी Trailer Bonus Episode 39 Season 1

वरद्वयम्

वरद्वयम्वरद्वयम्

00:00
कस्यचित् राज्ञः समीपे केनचित् तपस्विना दत्तः कश्चन विशिष्टः खड्गः असीत् येन सः सर्वेषु अपि युद्धेषु जयं लभते स्म । कदाचित् कश्चन असूयापरः राक्षसः निद्रासमये तं खड्गं चोरयित्वा राजानं कारागृहे स्थापयति । स्वप्ने काचित् देवी द्विवारम् आगत्य वरं ददाति येन आगामिषु दिनेषु सः पुनरपि राज्यं प्राप्नोति । तदा देवी प्रत्यक्षीभूय – 'इतः परं खड्गः युद्धाय न, अपि तु शान्तिपालनाय उपयोक्तव्यः' इति उक्त्वा अदृश्या भवति । एतत् अङ्गीकुर्वन् राजा युद्धचिन्तनं पूर्णतः परित्यज्य देशहितकार्ये निरतः अभवत् ।

(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a sage gave a powerful sword to a king, with which he won all his wars. However, a jealous demon stole the sword while the king was asleep and put him in the jail. Two times, a goddess appeared in the king's dreams and granted him boons with which he could regain his lost kingdom. Later, the goddess appeared and said, ‘From now on, the sword should be used only for maintaining peace, not for war.’ Accepting this, the king fully devoted himself to the welfare of his people and his kingdom.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.