बालमोदिनी

पुरातनकाले सञ्जीवनामकः महाराजः पुत्रकामनया बहुकालपर्यन्तं ब्राह्मणान् सेवितवान् । सन्तुष्टाः ब्राह्मणाः नारदमहर्षिं राज्ञे पुत्रदानार्थं प्रार्थितवन्तः । नारदमहर्षिः तत् अङ्गीकृत्य राजानम् अपृच्छत् 'भवान् कीदृशं पुत्रम् इच्छति?' इति । राजा अतिलोभात् 'तादृशं पुत्रं यच्छतु यस्य विष्ठा, मूत्रं, ष्ठीवनं, कफः सर्वमपि सुवर्णमयं स्यात्' इति । तथैव पुत्रः जातः । अल्पेनैव कालेन राज्ञः भाण्डागारं सुसंवृद्धम् । किन्तु कदाचित् चोराः तं राजकुमारम् अपहृत्य नीतवन्तः । ते यद्यपि बहुसुवर्णं प्राप्तवन्तः तथापि अन्ते तं राजभयात् मारितवन्तः । अतः वदन्ति 'अतिलोभात् विनश्यति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, King Sanjiva served many sages for years, praying for a son. Pleased with him, they requested Sage Narada to grant the king's wish. When Narada asked what kind of son he desired, the king, driven by greed, wished for a son whose every bodily waste would turn into gold. His wish was fulfilled, and soon the royal treasury overflowed with wealth. But one day, thieves kidnapped the prince. Though they gained much gold, they eventually killed him out of fear of being caught. Thus, the story teaches the timeless lesson: excessive greed leads to destruction.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.