बालमोदिनी

षोडशशतके प्रवृत्ता घटना एषा । अन्यमतीयानां दुराक्रमणकारणतः विश्वनाथमन्दिरम् उध्वस्तं, विश्वनाथस्य पूजा स्थगिता च इति विषयः सङ्कनायकं तुदति स्म । सः काषायवस्त्रं धृत्वा देहलीम् अगच्छत् । देहल्याम् अकबरस्य सेनापतिः अङ्कुशाखानः दुर्गद्वारे उद्घोषितवान् - यः आत्मानं खड्गयुद्धनिपुणं मन्यते सः मया सह युद्धं कुर्यात् इति । सङ्कनायकः महत् कौशलं दर्शयन् अल्पे एव काले अङ्कुशाखानस्य शिरश्छेदनम् अकरोत् । तस्य धैर्यं युद्धकौशलं च दृष्ट्वा सन्तोषं प्रकटयन् अकबरः तस्मै उपायनानि दातुम् उद्युक्तः । तत् निराकुर्वन् सङ्कनायकः अवदत् 'काश्यां विश्वनाथस्य पूजां व्यवस्थापयितुम् अनुज्ञा देया' इति । अकबरः सहर्षम् अनुज्ञां दत्तवान् । काशीतः सुदूरे स्थित्वा अपि स्थगितायाः विश्वनाथपूजायाः पुनरपि आरम्भम् उपायेन साधितवतः सङ्कनायकस्य प्रयासः नितरां स्तुत्यः एव ननु ?
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In the 16th century, the Visvanatha temple’s worship was halted after invasions. Distressed, Sankanayaka went to Delhi, where he defeated Akbar’s general Ankush Khān in a sword duel. Impressed, Akbar offered him gifts, but Sankanayaka instead requested permission to restore Visvanatha’s worship in Kashi. Akbar agreed, and the temple rituals resumed — a noble act of devotion achieved through courage and selflessness.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.