बालमोदिनी

कदाचित् कश्चन चोरः राजभटेभ्यः आत्मानं रक्षितुं किञ्चित् गृहं प्रविष्टवान् । स्वेन नीतां ग्रन्थिं मञ्चस्य उपरि संस्थाप्य, आत्मानं कम्बलेन आच्छाद्य तत्र शयितेन जनेन सहैव शयितवान् । तौ द्वौ अपि राजभटैः महाराजस्य समीपं नीतौ । द्वौ अपि 'अहं चोरः न' इति अवदताम् । महाराजः महान् प्राज्ञः न्यायप्रियश्च । अस्यां समस्यां परिहारः कथं करोति ? केनोपायेन दोषिणं गृह्णाति ? एतां स्वारस्यकारिणीं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a thief entered a house to hide from the king’s guards. He placed his bundle on a cot, covered himself with a blanket, and lay down beside the man already sleeping there. Both were taken before the king, and each claimed, “I am not the thief”.  The king, wise and just, devised a clever test. He ordered the bundle to be opened and asked each man to identify its contents. The true owner could easily describe them, while the thief hesitated and revealed himself. Thus, by intelligence rather than force, the king discovered the guilty one.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.