बालमोदिनी

जीवने महान्तम् आघातं प्राप्तः कश्चन जनः, तस्य मित्रं च वाताटस्य उड्डयनं, सूत्रस्य खण्डनं, ततः वाताटस्य पतनं च दृष्टवन्तौ । विषादेन उपविष्टवन्तं मित्रं, सुहृत् जीवनतत्त्वम् उपदिशति - परिवारसंस्कृतादयः सूत्रम् इव व्यवहरन्तः जीवने स्थिरत्वं समतोलनं च ददाति । तस्मात् तेषां खण्डनं कदापि न करणीयम् । एतत् अनवगच्छन्तः वयं परिवारसंस्कृत्यादिकं विस्मृत्य धनैकदृष्ट्यः, उन्नत्यैकदृष्ट्यः सन्तः, अग्रे गच्छामः, पतनं च प्राप्स्यामः इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A person who had faced great difficulty in life, sitting in a park with his friend, noticed the ascent of a kite, the breaking of its string, and then its fall. Observing this, the friend imparted a life lesson to the saddened person: 'Family values and culture are like the string of the kite, providing stability and balance in life. The breaking of such bonds should never happen. However, when we are blinded by the pursuit of wealth or progress, we forget these bonds, move forward, and ultimately, we fall’.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.