बालमोदिनी

कदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् ।  किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत्  इति जिज्ञासायां कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Akbar thought in his mind, 'Birbal always makes me the subject of ridicule. Once, I must make him a subject of ridicule instead'. Then, one day, Akbar even made an effort. However, Birbal was extraordinary. Defeating him was indeed difficult. Akbar's attempt proved futile. If you're curious to know what happened between Akbar and Birbal, listen to the story.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.