बालमोदिनी

मणिपुरनगरे मणिवल्लभः शासनं करोति स्म । सः धार्मिकः नीतिमान् बुद्धिमान् च । परन्तु महान् गर्विष्ठः अपि । कदाचित् महाराजं द्रष्टुम् आगतः कश्चन कविः वदति यत् पार्वतीपुरे ग्रामे सर्वे अतीव आरोग्यशालिनः बुद्धिमन्तश्च इति । कवेः वचनस्य परीक्षां कर्तुं राजा गच्छति । एक मेषपालः मिलति । तं चतुरः प्रश्नान् पृच्छति महाराजः । तस्य उत्तराणि श्रुत्वा महाराजः लज्जाम् अनुभूतवान् । तस्य गर्वः अपगतः । मदपेक्षया बुद्धिमन्तः अन्येऽपि सन्ति लोके इति सः अङ्गीकृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Manipur city, King Manivallabha ruled. He was religious, just, and wise, but very proud. One day a poet told him that in the village of Parvatipur all people were healthy and intelligent. To test this, the king went there and met a shepherd. The king asked him clever questions, and the shepherd’s answers humbled him. The king’s pride vanished, and he admitted that others too can be wiser than himself.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.