बालमोदिनी

फ्रान्स्-देशस्य कश्चन लघुग्रामः महता अरण्येन आवृतः आसीत् । ततः अनतिदूरे कश्चित् महापर्वतः विराजते स्म । कदाचित् तद्ग्रामस्य अष्टवर्षीयः बालं तं पर्वतम् आरुह्य एकस्यां महाशिलायाम् उपविश्य निसर्गसौन्दर्यम् आस्वादयन् आसीत् । अन्धकारः प्रसृतः चेदपि बालः गृहं न आगतः इति चिन्तायां सत्यां तस्य पितामही प्रतिवेशिजनैः सह पौत्रस्य अन्वेषणं कुर्वती पर्वतसमीपम् अगच्छत् । तत्र कस्याञ्चित् महाशिलायां तूष्णीम् उपविष्टः बालः तैः दृष्टः । भीतेः स्वरूपमेव अजानतः स्वस्य पौत्रस्य धीरतां दृष्ट्वा पितामही तम् आलिङ्गितवती । स्वीये अष्टमे वयसि अपि भीतिम् अजानन् सः बालः अग्रिमे काले स्वकीयं बलम् एव साधनं मत्वा फ्रान्स्-देशस्य सेनानेतृत्वं निरूढवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In France, a small village was surrounded by a great forest, with a mountain nearby. One day, an eight-year-old boy climbed the mountain and sat on a large rock, enjoying nature. When darkness fell and he did not return, his grandmother, worried, searched with neighbors and found him calmly seated on the rock. Amazed at his fearlessness, she embraced him. Even at eight he knew no fear, and later, considering his courage as his strength, he rose to become the commander of France’s army.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.