बालमोदिनी

बालमोदिनी Trailer Bonus Episode 84 Season 1

आशयः तु इत्थम्

00:00
कदाचित् शिष्यः आनन्दः प्रसङ्गत्रयविषये वर्तमानां जिज्ञासां परिहर्तुं भगवन्तं बुद्धं पृच्छति - ‘भगवान् अस्ति इति कदाचित् वदति । भगवतः‌ पूजा मास्तु इत्यपि वदति । भगवतः अस्तित्वस्य विषये यदा कश्चन शिष्यः प्रष्टुम् आगतः तदा भवान् किमपि उत्तरं न ददाति । किमर्थम् एवम् ?’ इति । तदा बुद्धः यथाक्रमं तस्य प्रश्नस्य उत्तरं यच्छति
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, disciple Anand, who was curious about three related matters, asked the Buddha to clear his doubts. He said, 'Lord, sometimes you say that God exists. At other times, you say that God should not be worshiped. When another disciple came to ask about the existence of God, you did not give any answer. Why is this?' Then, the Buddha, in due course, gave a response to his question.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.