कदाचित् भगवान् बुद्धः सरोवरे सद्योविकसितस्य कमलस्य सुगन्धस्य आस्वादनम् आरब्धवान् । तावता काचित् देवकन्या प्रत्यक्षा भूत्वा अवदत् 'किमपि मूल्यम् अदत्त्वा पुष्पस्य गन्धम् आजिघ्रति भवान् । एतत् चौर्यम्' इति । तावता अन्यः कश्चन आगत्य बहूनां कमलपुष्पाणां निर्दाक्षिण्यम् उत्पाटनम् आरब्धवान् । किन्तु सा देवकन्या तम् उद्दिश्य किमपि न अवदत् । तथा किमर्थम् इति बुद्धेन पृष्टे देवकन्या अवदत् 'लोभतृष्णादिभिः अभिभूताः सांसारिकाः धर्माधर्मयोः भेदं न जानन्ति । अतः धर्मरक्षणस्य भारः अपि तेषु आधिक्येन न भवति । किन्तु ये धर्मपरायणाः स्युः, तेषाम् अल्पा एव मार्गभ्रष्टता भवति महते पापाय । महताम् उत्तरदायित्वम् अपि भवति महत् एव' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the Buddha enjoyed the fragrance of a freshly blossomed lotus in a lake. A celestial maiden appeared and said: ‘You smell the flower’s fragrance without paying anything — this is theft’. Meanwhile, another man came and ruthlessly plucked many lotuses. Yet the maiden said nothing to him. Curious, the Buddha asked why. She replied: ‘Worldly people, overcome by greed and desire, cannot distinguish between right and wrong; hence the burden of protecting dharma does not fall heavily upon them. But those devoted to righteousness — even a small deviation can lead to great sin. For the virtuous, responsibility is as great as their stature’.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.