बालमोदिनी

कश्चन महात्मा ध्यानविषये बोधयन् मण्डूकस्य दृष्टान्तं वदति — 'मण्डूकेन इव तदेकनिष्ठया ध्यानं करणीयम् । मण्डूकः क्षुद्रजीवी अपि श्रद्धया एकनिष्ठया ध्यानं करोति । सः वृष्टिं प्रार्थयमानः भूमेः अन्तः स्थित्वा प्रतीक्षां करोति । तस्य अपेक्षां निसर्गः पूरयति ।  श्रद्धया सहनया च अपेक्षितस्य तत्त्वस्य प्रतीक्षणम् एव ध्यानं नाम । तादृशः स्वभावः मानवेषु स्यात् चेत् ते अपि अपेक्षितं प्राप्तुं शक्नुवन्ति । उदात्तं तत्त्वं लक्ष्यीकृत्य यः ध्यानं करोति, तस्य जीवनम् अपि उदात्तं भवति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A great teacher once explained the essence of meditation using the example of a frog. Though a humble creature, the frog meditates with unwavering focus and faith. It sits patiently underground, praying for rain, trusting that nature will fulfill its need. This waiting, filled with faith and endurance, is itself meditation. If humans develop such a nature—steady, devoted, and patient—they too can attain what they seek. True meditation is not just sitting still, but waiting with trust for the higher truth to reveal itself. And one who meditates with such noble intent leads a noble life.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.