बालमोदिनी

कस्यचित् मठस्य व्यवस्थापकः कञ्चित् युवकं चन्दनस्य उद्घर्षणं क्रियताम् इति आदिशत् । प्रतिवचनं किमपि अनुक्त्वा सः उद्घर्षणं कुर्वन् रामनामजपम् अकरोत् । किञ्चित् कालानन्तरम् अज्ञाततया अग्निसूक्तपठनम् आरब्धम् । तावता चन्दनलेपः सिद्धः आसीत् । वेदज्ञाः तद् लिप्तवन्तः, किन्तु तेषां देहे तापः अभवत् । व्यवस्थापकः युवकं क्षमां प्रार्थितवान्, युवकः वरुणसूक्तम् अपठत् । ततः वेदज्ञाः शीतलताम् अनुभूतवन्तः । एषः युवकः 'राघवेन्द्राचार्यः' इति ख्यातः अभवत्।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The manager of a certain monastery instructed a young man to grind sandalwood. Without saying anything in response, he began the grinding while chanting the name of Lord Rama. After a while, he unknowingly started reciting the Agni Suktam. By the time the sandalwood paste was ready, the scholars who applied it felt heat on their bodies. The manager asked the young man for forgiveness and the young man recited the Varuna Suktam. Then, the scholars experienced a cooling effect. This young man became famous as 'Raghavendra Swami'.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.