कदाचित् गुरुकुले मगधराजकुमारं गुरुः विना कारणं दण्डेन ताडितवान् आसीत् । वेदनाम् अनुभवन् 'किमर्थम् एवं मम दण्डनं क्रियते ?’ इति राजकुमारेण पृष्टे गुरुः गाम्भीर्येण अवदत् 'कालान्तरेण स्वयं ज्ञास्यते त्वया' इति । कालान्तरेण राजकुमारः सिंहासनम् आरूढवान् । कदाचित् गुरुः तं द्रष्टुम् आगतः । राजा तं यथोचितं सत्कृत्य सम्भाषणावसरे गुरुकुले विना कारणं दण्डनस्य कारणम् अपृच्छत् । गुरुः हसन् अवदत् 'तस्मिन् दिने मया न प्रहृतम्, अपि तु बोधितम् । अकृतापराधाः यदा दण्ड्येरन् तर्हि तैः कीदृशी वेदना प्राप्येत इति मया ज्ञापनीयम् आसीत् । सम्यक् विचार्य एव त्वया दण्ड्याः दण्डनीयाः....’ इति । 'आजीवनं भवतः उपदेशस्य अनुगुणम् एव व्यवहरिष्यामि अहम्' इति विनयेन अवदत् राजा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once in a gurukula, the teacher struck the prince of Magadha with a punishment, seemingly without reason. Feeling the pain, the prince asked: ‘Why am I being punished in this way?’ The teacher, with gravity, replied: ‘In time, you will understand for yourself’. Later, the prince ascended the throne. One day, the teacher came to see him. The king welcomed him with due honor, and during their conversation asked about the reason for that punishment in the gurukula. The teacher smiled and said: ‘On that day, I did not strike you, but rather taught you. I wished to show you what kind of suffering is felt when the innocent are punished. So that when you judge, you may punish only after proper consideration’. The king humbly replied: ‘Throughout my life, I shall act in accordance with your teaching’.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.