बालमोदिनी

कदाचित् गुरोः प्रवचनानन्तरं शिष्येण आनन्देन मया देवः दृष्टः इति कथिते अन्ये  शिष्याः हसन्ति । एवमेव बहुवारं प्रवृत्ते, एकस्मिन् दिने गुरुः वदति यत् - 'पुनः देवः दृश्यते चेत् गुरुत्वप्राप्तितः पूर्वं किं किं पापकार्यं कृतं मया इति त्वया प्रष्टव्यम् । तदा एव भवता देवः दृष्टः इत्येतत् प्रमाणितं भवेत्‘ इति । अनन्तरदिने तेन देवः दृष्टः इति निरूपितं भवति । तत् कथमिति जिज्ञासायां कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, after the Guru’s lecture, when disciple Ananada said, 'I have seen God,' the other disciples laughed. This happened many times. One day, the Guru said, 'If you see God again, you must first ask me what sinful actions I have committed before attaining the state of a guru. Only then will it be confirmed that you have indeed seen God.' A few days later, it was confirmed that God had been seen. Now, listen to the story to understand how this happened.



What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.