बालमोदिनी

अस्यां कथायां वेदव्यासस्य पुत्रेण शुकदेवेन ज्ञायते यत् एतस्मिन् जगति विधिना निर्मितस्य वस्तुजातस्य अवश्यं हि कापि उपयुक्तता वर्तते एव । पूर्णरूपेण अनुपयुक्तं वस्तु दुर्लभम् एव । ईश्वरेण प्रत्येकं वस्तु मानवलोककल्याणार्थम् एव निर्मितम् । एतस्मिन् लोके सर्वथा अनुपयुक्तम्, अतः एव त्यक्तव्यम् एकमेव वस्तुजातम् । तद् अस्ति अहङ्कारः नाम । अतः सः गुरुं जनकं प्रार्थयते 'निरन्तरं निरहङ्कारः भूत्वा वर्तितुं यत् मनोबलम् आवश्यकं तत् ददातु कृपया' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In this story, Shukadeva, the son of Vedavyasa, realizes that in this world, everything created by divine will has a purpose. Completely useless objects are indeed rare. Every creation of God is made for the welfare of humanity. In this world, there is only one entity that is entirely useless and must therefore be abandoned—that is ego. Thus, he prays to his Guru and father, saying, "Kindly grant me the mental strength necessary to always live without ego".

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.