बालमोदिनी

चातकी मयूरी च वर्षाराज्ञ्याः पुत्र्यौ । रूपवत्यै गुणवत्यै च मयूर्यै चातकी असूयति स्म । तस्याः अमङ्गलम् अपि चिन्तयति स्म । कदाचित् चातकी मयूर्याः अहितं करोति । तद् ज्ञातवत्या मात्रा वर्षाराज्ञ्या चातकी शप्ता जाता । अभिशप्ता चातकी सहसा स्वर्गात् धराम् आगतवती । अद्यापि सा तृषाम् अनुभवन्ती अस्ति । यद्यपि पृथिव्यां जलं भवति तथापि तत् कदापि न पिबति । वर्षाराज्ञ्याः कृपाजलम् एव अपेक्षते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Chatakī and Mayūrī were daughters of the Rain Queen. Though Mayūrī was beautiful and virtuous, Chatakī grew envious of her and even wished her harm. One day Chatakī acted against Mayūrī. When her mother, the Rain Queen, came to know of this, she cursed Chatakī. At once, Chatakī fell from heaven to earth. Even today she suffers from thirst. Though water exists on earth, she never drinks it—she waits only for the merciful drops of rain from the Rain Queen.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.