कश्चन महात्मा आश्रमम् आगतान् भक्तान् स्वागतीकृत्य भोजनाय निमन्त्रितवान् । भोजनसमये सः महात्मा अवदत् 'मानवस्य आहारसेवनक्रमः पशूनामिव स्यात् । पशवः केवलं बुभुक्षायां सत्याम् एव खादन्ति । भगवता विहितम् आहारम् एव सेवन्ते । मानवः तु बुभुक्षायाम् अजातायाम् अपि खादति, विवाहादौ मितम् अतिक्रम्य भोजनं करोति, स्वस्य आरोग्यं नाशयति । स्वास्थ्यरक्षणं मानवाधीनम् अस्ति, किन्तु तत्र आदरः न दृश्यते । व्यायामेन च स्वास्थ्यदोषाणां निवारणं शक्यं, तथापि मानवः तदपि न करोति । अन्नं ब्रह्म, पूज्यं च । एकः अपि अन्नकणः न व्यर्थीकरणीयः । सद्विचारपूर्वकं सेवनम् एव सत्फलं ददाति' इति । भक्ताः एतान् विचारान् स्मरन्तः तृप्त्या भोजनं कृत्वा निर्गताः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a revered sage welcomed devotees to his ashram and invited them for a meal. During the meal, he shared a profound reflection: “A human’s eating habits often resemble those of animals. Animals eat only when hungry and consume what nature has assigned to them. But humans eat even without hunger, and during occasions like weddings, they overindulge, harming their own health.” He emphasized that maintaining health is within human control, yet people neglect it. Though exercise can prevent health issues, many avoid it. He reminded everyone that food is sacred—Annam Brahma—and must be respected. Not even a single grain should be wasted. Only food consumed with thoughtful awareness yields true benefit. The devotees, deeply moved by these insights, ate mindfully and departed with a sense of fulfillment.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.