बालमोदिनी

सर्वविधानि आनुकूल्यानि भोगसाधनानि च सन्ति चेदपि कस्यचित् धनिकस्य जीवने सन्तोषस्य अभावः आसीत् । कदाचित् स्वनगरं प्रति आगतवते संन्यासिने स्वस्य दुःखं निवेदयति । तदा संन्यासी दर्शयति यत् केवलं धनसङ्ग्रहणमात्रेण सन्तोषः न प्राप्यते । धनस्य वितरणं करणीयम् । दीनानां सेवा करणीया । परोपकारः चिन्तनीयः । तस्मात् अपारः सन्तोषः प्राप्स्यते इति । तस्मात् दिनात् सः धनिकः सम्पत्तेः वितरणम् आरब्धवान् ।  ततः तस्य सन्तोषः दिने दिने अवर्धत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Even though a wealthy man had all kinds of conveniences and means of enjoyment, his life lacked satisfaction. Once, he expressed his sorrow to a sage who visited his town. The sage then showed him that satisfaction cannot be achieved merely through the accumulation of wealth. Wealth should be distributed. The poor should be served. From this, immense satisfaction will be attained. From that day on, the wealthy man started distributing his wealth. Then his satisfaction increased day by day.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.