बालमोदिनी

'गावः लोके पूज्याः भवन्ति । गोषु वासेन ममापि गौरवं वर्धेत' इति विचिन्त्य लक्ष्मीदेवी गवां समूहम् उपसर्प्य स्वपरिचयम् उक्त्वा स्वेच्छां प्रकटय्य तदर्थम् अनुज्ञां प्रार्थयति । तदा गावः उक्तवत्यः 'पूज्ये! भवती पूजार्हा चेदपि चञ्चलत्वेन भवत्याः अपख्यातिः अस्ति । अतः भवत्यै आश्रयं दातुं नेच्छामः वयम्' इति । 'भवत्यः गुणवत्यः परोपकारशीलाः च । अतः कस्मिंश्चित् अङ्गे वासाय अवसरः दीयताम्' इति पुनः लक्ष्मीः प्रार्थयति । 'भवती गोमूत्रे गोमये च वासं कर्तुम् अर्हति । तेन गोमयगोमूत्रयोः महत्त्वम् इतोऽपि वर्धेत' इति ।  लक्ष्मीः एतत् अङ्गीकरोति । तस्मात् एव दिनात् तया गोमूत्रे गोमये च लक्ष्म्या वासः आरब्धः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Lakshmi wished to live among cows to gain honor. The cows, citing her fickle nature, refused. Lakshmi pleaded for some place to stay. Moved by her plea, the cows said: “You may dwell in cow dung and cow urine. By your presence there, their importance will grow further”. Lakshmi accepted this arrangement with grace. From that day onward, it is believed that she resides in cow dung and cow urine, which is why they are considered sacred and auspicious in Hindu tradition.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.