बालमोदिनी

रमणमहर्षेः आश्रमस्य समीपे कश्चन अध्यापकः निवसति स्म यस्य गृहे प्रतिदिनं कलहमयं वातावरणं भवति स्म । एतस्मात् जुगुप्सितः सः आत्महत्यां कर्तुं निर्णीतवान् ।  किन्तु आत्महत्यानिर्णयः न सुकरः इति विचिन्त्य मार्गदर्शनं प्राप्तुं सः रमणमहर्षेः आश्रमं गत्वा सर्वं निवेदितवान् । तदा महर्षिः केनचित् निर्दर्शनेन दर्शयति यत् 'योग्यम् उपयोगम् अस्वीकृत्य कस्यचित् वस्तुनः क्षेपणं न उचितम् । तथापि उपयोगसमाप्तितः पूर्वम् एव उत्कृष्टस्य वस्तुनः क्षेपणे उद्युक्तः अस्ति भवान्' इति । ततः अध्यापकः आत्महत्याचिन्तनं परित्यज्य उत्तमजीवनस्य यापने मतिं कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Near the ashram of Ramana Maharshi, a teacher lived in a quarrelsome atmosphere at home every day. Because of this, he decided to commit suicide. However, considering that the decision to commit suicide was not easy, he went to Ramana Maharshi's ashram for guidance and explained everything to him. Ramana Maharshi showed that it is not right to discard something useful without proper use. He said, ‘You are ready to discard something valuable before its use is completed’. After hearing this, the teacher gave up the idea of suicide and decided to lead a good life.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.