बालमोदिनी

कदाचित् राजगृहनगरे भिक्षाप्राप्त्यर्थं सञ्चरत्सु केषुचित् बुद्धशिष्येषु कश्यपः इति कश्चन अन्यतमः शिष्यः मन्त्रविद्याबलात् स्तम्भस्य उपरि स्थापितं स्वर्णपूर्णं चन्दनकरण्डकं प्राप्तवान् ।  वृत्तं ज्ञात्वा बुद्धः असन्तुष्टः सन् कश्यपं वदति यत् तत् त्वदीयं न, तस्य प्राप्त्यर्थं कृतः प्रयासः अधोगतिं निरूपयति इति ।  सामर्थ्यातिशये प्रदर्शिते कथम् अधोगतिं निरूपयति इति कश्यपेन पृष्टे बुद्धः अवगमयति यत् यः वासनाभिः व्यमोहैः च विमुक्तेन भिक्षुना आशया करण्डकप्राप्त्यर्थं प्रयासः कृतः । पौनःपुन्येन प्राप्तम् एतत् दौर्बल्यं निश्चयेन अधोगतिं प्रापयति इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Buddha’s disciple named Kashyapa used his knowledge of mantras to lift a golden sandalwood pot from a pillar while seeking alms. When Buddha heard this, he told Kashyapa that the pot was not his and that his effort has led him downward. Kashyapa, surprised, asked how such a display of skill could be wrong. The Buddha explained that the monk, though free from desires, was driven by past attachments and delusions, and such actions would lead him downward.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.