बालमोदिनी

'यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः' इत्यस्य वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कदाचित् स्काट्लेण्डदेशस्य एडिम्बरानगरस्य दण्डाधिकारी जार्ज् ड्रुमण्डः, वायुविहारसमये काञ्चन शवयात्राम् अपश्यत् । किन्तु पेटिकां परितः चतुरः जनान् विहाय अन्ये केऽपि न आसन् । कारणं तस्य दरिद्रस्य बान्धवाः, स्नेहिताः च न आसन् । अतः ड्रुमण्डः 'दरिद्राणां सेवां करोमि' इति विचिन्त्य तैः सह प्रस्थितवान् । ड्रुमण्डस्य वचनैः प्रभाविताः जनाः तम् अनुसृतवन्तः । दण्डाधिकारी कस्यचित् दरिद्रस्य शवसंस्कारार्थं गच्छन् अस्ति इति श्रुत्वा न केवलम् अहमहमिकया धावित्वा भागम् ऊढवन्तः अपि च ड्रुमण्डस्य प्रेरणया मृतस्य भार्यायाः जीवननिर्वहणार्थं धनसाहाय्यमपि कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

This story serves as a great example of the saying, "Whatever a great person does, others follow". Once, George Drummond, a magistrate of Edinburgh, Scotland, saw a funeral procession during his evening walk. However, apart from four people carrying the coffin, no one else was present. The reason was that the deceased was poor and had no relatives or friends. Moved by compassion, Drummond decided to accompany them, thinking, "I must serve the poor". Inspired by his actions, others followed him. Upon hearing that a magistrate was attending a poor man's funeral, many rushed to join. Not only did they participate in the funeral, but, motivated by Drummond, they also provided financial assistance to the deceased’s widow for her livelihood.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.