बालमोदिनी

कयाचित् महिलया स्वप्ने आपणिकत्वेन स्थितः भगवान् दृष्टः । कीदृशानां वस्तूनां विक्रयणं भवति इति महिलया पृष्टे भगवान् वदति यत् सर्वमपि लभ्यते बीजरूपेण । तत् उप्त्वा पोषणं कृतं चेत् गच्छता कालेन फलानि प्राप्यन्ते इति । स्वप्नतः जागरिता महिला चिन्तयति - ‘स्वप्ने भगवान् येषां बीजानां विषये अवदत् तानि बीजानि जीवने मया अन्यैः च प्राप्तुं शक्यनि एव ।  एतत् तथ्यम् अजानत्या मया एतावन्ति वर्षाणि व्यर्थतया यापितानि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A woman once saw God in her dream, standing as a shopkeeper. When she asked what kind of things were sold, God replied that everything is available in seed form. By planting and nurturing it, one can obtain fruits over time. Upon waking from the dream, the woman thought, "In the dream, God spoke about seeds. These seeds can indeed be obtained by myself and others in life. Not knowing this truth, I have wasted so many years."

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.