बालमोदिनी

कस्यचन वणिजः गृहम् उभयतः द्वौ लोहकारौ कुटीरं निर्माय प्रतिदिनं प्रातः आरभ्य रात्रिपर्यन्तं कार्यं कुरुतः । आदिनं कर्कशं लोहकुट्टनशब्दं सोढुम् अशक्नुवन् वणिक् एकम् उपायं करोति । परेद्यवि ताभ्यां लोहकाराभ्याम् अन्यकुटीरगमनार्थं सहस्रं रूप्यकाणि अयच्छत् । उभौ अपि अङ्गीकृतवन्तौ । किन्तु अग्रिमदिवसे पुनः कुट्टनशब्दं श्रुत्वा यदा वणीक् तौ पृच्छति तदा तौ वदतः 'आवां कुटीरपरिवर्तनं कृतवन्तौ । वामभागे कुटीरे स्थितः अहम् इदानीं दक्षिणभागे निवसामि । सः इदानीं वामभागे निवसति' इति । एतत् उत्तरं श्रुत्वा वणिक् मूकः एव अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The story humorously narrates the struggle of a merchant who had two blacksmiths working in huts on either side of his house, creating a constant racket from dawn till night. Unable to tolerate the noise, he offered each blacksmith a thousand rupees to move to a different hut. Both agreed, but the next day, the merchant heard the same clanging noise. When he questioned them, they explained, "We have moved to a different hut. I now live in the hut on the right, and he lives in the hut on the left". Hearing this, the merchant was left speechless.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.