बालमोदिनी

कश्चन राजा तस्य पुत्रं गुरुकुलं प्रेषयितुम् इच्छन् तत्रत्यम् आचार्यम् अपृच्छत् यत् तस्य पुत्रस्य वासशिक्षणादिनिमित्तं कापि विशेषव्यव्यस्था परिकल्पयितुं शक्यते वा इति । तदा आचार्यः अवदत् 'राजकुलीयानां सञ्चाराय, वासाय, आहारस्य वा विशेषव्यवस्था भवेत् राजभवने किन्तु ज्ञानमार्गेण ये गन्तुम् इच्छेयुः तेषां निमित्तं पार्थक्येन न भवति विशेषमार्गः । अत्र राजकुमारेण सर्वैः सह वासः करणीयः, सर्वैः यत् सेव्येत तदेव सेवनीयं, सर्वैः यथा परिश्रमेण अध्ययनं क्रियेत तथैव करणीयम् च‌’ इति । राजा प्रतिवचनं किमपि अनुक्त्वा अनन्तरदिने एव पुत्रम् आनीय गुरुकुलं प्रवेशितवान् ।  
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A king wished to send his son to a gurukula and asked the teacher if any special arrangements could be made for the prince’s stay and education. The teacher replied: “Special provisions for travel, lodging, or food may exist in the royal palace, but on the path of knowledge there is no separate way. Here the prince must live with all, eat what all eat, and study with the same effort as everyone else”. The king said nothing in response, but the very next day he brought his son and admitted him into the gurukula.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.