काशीराज्ये राज्ञः ब्रह्मदत्तस्य पुत्रः बोधिसत्त्वः यदा जन्म प्राप्तवान् तदा एव दिने काचित् दासी अपि कटाहकनामकाय पुत्राय जन्म दत्तवती । कालक्रमेण कटाहकः पार्श्वराज्यस्थस्य धनिकस्य कन्यया विवाहं कृतवान् । बोधिसत्त्वः कटाहकेन मेलितुं तस्य गृहं गच्छति । कटाहकः स्वपत्नीं बहुधा पीडयति इति ज्ञात्वा बोधिसत्त्वः तस्य पत्नीं उपदिशति "तव पतिः कुपितः चेत् एतं श्लोकम् उच्चैः पठ" इति । कटाहकेन पत्न्यां निन्दितायां सा तं श्लोकम् उच्चैः पठति । तं श्लोकं श्रुत्वा कटाहकः चिन्तितवान् यत् मम पत्नी मम वञ्चनापूर्णं पूर्ववृत्तान्तं ज्ञातवती । रहस्यप्रकाशनभीत्या सः तया सह उत्तमतया व्यवहर्तुम् आरब्धवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
On the same day that the Bodhisattva, the son of King Brahmadatta, was born in the kingdom of Kashi, a maidservant also gave birth to a son named Katahaka. In time Katahaka married the daughter of a wealthy man in the neighboring kingdom. The Bodhisattva goes to his house to meet Katahaka Knowing that Katahaka often torments his wife, the Bodhisattva advises his wife, "If your husband is angry, read this verse aloud." When Katahaka rebukes his wife, she reads that verse aloud. After hearing that verse, Katahaka thought that my wife had learned of my cheating past. Afraid of revealing secrets, he began to treat her better.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.