बालमोदिनी

कदाचित् कश्चन दरिद्रः अब्राहंलिङ्कन्-महोदयस्य समीपम् आगत्य 'किमपि ददातु' इति अपृच्छत् । तदा लिङ्कनवर्यः 'भवतः हस्तद्वयं मह्यं ददातु । अहं लक्षडालर्-परिमितं धनं दास्यामि' इति उक्तवान् । 'मम अमूल्यहस्तौ भवते दत्त्वा अहं किं करिष्यामि?’ इति अवदत् दरिद्रः । ततः पादद्वयं, नेत्रद्वयं ददातु इति यदा लिङ्कनवर्यः अवदत् तदा कोपेन दरिद्रः 'अहं अत्यमूल्यानि अङ्गानि कदापि न ददामि' इति अवदत् । अन्ते लिङ्कवर्यः वदति 'भवान् कश्चन सुदृढकायः आरोग्यवान् जनः । तस्य सदुपयोगं करोतु' इति । एतत् श्रुत्वा दरिद्रः अवदत् 'भवता अङ्गानाम् अमूल्यता दर्शिता । अहं परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a poor man came to Abraham Lincoln and asked him for something. Lincoln said: “Give me your two hands, and I will give you one hundred thousand dollars”. The poor man replied: “If I give you my priceless hands, what will I do then?” Lincoln then said: “Give me your feet, give me your eyes.” The poor man, now angry, answered: “I will never give away my invaluable limbs”. Finally, Lincoln said: “You are a strong and healthy person. Make good use of that”. Hearing this, the poor man said: “You have shown me the priceless value of my body. I will work hard and make my life meaningful”.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.