बालमोदिनी

कदाचित् गान्धिवर्यः स्वस्य आश्रमे कस्मिंश्चित् कार्ये व्यस्तः आसीत् । तस्य लेखन्याः मषी समाप्तप्राया जाता । अन्येद्युः सः लेखनार्थम् आगत्य यदा उपाविशत् तदा सा लेखनी तत्र न असीत् । सहोद्योगिनं यदा अपृच्छत् तदा सः अवदत् यत् यतः सा लेखनी अतिप्राचीना जाता अतः तां बहिः अक्षिपम् इति । तत्क्षणे एव गान्धिवर्यः अतीवक्रुद्धः जातः । आश्रमे सर्वे अपि लेखन्याः अन्वेषणम् आरब्धवन्तः । अन्ते आश्रमस्य पुरतः केदारखण्डे पतिता लेखनी प्राप्ता । तां प्राप्य गान्धिवर्यः अवदत् 'क्षुद्रवस्तुनः अपि मूल्यं न कदापि न्यूनम् । अल्पमूल्यकानाम् अपि वस्तुनां महत्त्वं वर्तते अस्माकं जीवने' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Gandhi was busy with some work in his ashram. His pen had nearly run out of ink. The next day, when he came to write, the pen was missing. On asking a co-worker, he was told: “Since the pen had become very old, I threw it away”. Immediately, Gandhi became very upset. Everyone in the ashram began searching for the pen, and at last it was found lying in a field outside. Holding it, Gandhi said: “Even the smallest object should never be undervalued. Things of little cost still hold great importance in our lives”.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.