बालमोदिनी

सुमन्तकनामकः कश्चित् अलसः गृहजनैः पुनः पुनः उपदेशे कृते गृहमेव परित्यज्य गतवान् । भिक्षावृत्त्या उदरपोषणं कुर्वन् ग्रामान् नगराणि च अटितवान् । कदाचित् भगवती लक्ष्मीदेवी सुमन्तकं दृष्ट्वा अतीव दयापूर्णा जाता । सा स्वपतिं विष्णुं किमपि साहाय्यं कर्तुम् अवदत् । एषः सर्वथा अलसः इत्यतः तस्य भाग्यं न फलति इति अवदत् विष्णुः । लक्ष्म्याः पुनः पुनः अनुरोधेन सः एकं रत्नैः पूर्णं घटं सुमन्तकस्य मार्गे स्थापितवान् । किन्तु यथा विष्णुना उक्तं तथैव कृतवान् सुमन्तः । तस्य आलस्यं दृष्ट्वा लक्ष्मीः विस्मिता अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Sumantaka, a lazy man, left his home despite repeated advice from his family. He wandered through villages and cities, surviving on alms. Seeing his plight, Goddess Lakshmi felt deep compassion and requested Lord Vishnu to help him. Vishnu replied, "He is completely lazy, so his fortune will not bear fruit". At Lakshmi’s insistence, Vishnu placed a pot full of gems in Sumantaka’s path. However, as Vishnu had predicted, Sumantaka remained indifferent due to his laziness. Witnessing this, Lakshmi was astonished.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.