बालमोदिनी

कदाचित् ऊर्ध्वपुण्ड्रधारिणः जटाभिः शोभमानाः दशमिताः विरागिसाधवः चिटिकां विना रेल्यानम् आरूढवन्तः । सर्वेSपि साधवः कारागारं प्रति नेयाः इति चिटिकानिरीक्षदलेन आरक्षिणः आदिष्टाः यतः तेषु असाधवः अपि आसन् केचन । आरक्षकनिरीक्षकः सर्वान् साधून् आहूय - 'ये त्रिपुण्ड्रम् अपसारयेयुः, ये कण्ठे धृतां रुद्राक्षमालां भञ्जयेयुः च तान् कारागारतः मोचयिष्यामः' इति वदति । अष्ट साधवः तथैव कृतवन्तः । किन्तु उभौ साधू तथा कर्तुं सहमतौ न जातौ । तेन ज्ञातं के साधवः असाधवः च इति । तौ द्वौ सधू मोचितौ, अष्ट साधवः बन्धिताः च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, 10 sages wearing Urdhvapundra and Rudraksha boarded a train without tickets. Since they didn’t have tickets, they were all taken to jail. The inspector called all the sages and said, 'Those who can remove the Urdhvapundra and break the Rudraksha mala, I will release them from jail.' Eight of them agreed to do so. However, two of them did not agree. Thus, it was revealed who were virtuous and non-virtuous. The two virtuous sages were freed, while the eight were imprisoned.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.