बालमोदिनी

कश्चन तरुणः विद्याभ्यासं समाप्य स्वग्रामं गत्वा अध्ययन् कुर्वन् यथाशक्ति अध्यापनम् अपि आरब्धवान् । तस्य उत्कृष्टेन अध्यापनेन दिने दिने तस्य कक्ष्यायां छात्रसङ्ख्या प्रवृद्धा । तेन अन्ये अध्यापकाः असूयां प्राप्य छात्राणां मातापितरौ मिथ्या उक्त्वा छात्राः यथा कक्ष्यां न गच्छेयुः तथा कृतवन्तः । एतत् कुतन्त्रं जानन् अपि सः तरुणः अधीरः न जातः । कांश्चन शङ्कून् पुरतः संस्थाप्य सः अध्यापनम् आरब्धवान् । द्वित्राणां दिनानाम् अनन्तरं ग्रामीणाः तस्य अध्यापनश्रद्धाम् असूयग्रस्तानां कुतन्त्रं च ज्ञात्वा तं तरुणं क्षमां याचित्वा 'भवता एव अस्मदीयाः बालाः पाठनीयाः' इति प्रार्थितवन्तः । शङ्कून् पाठयन् पाठनव्रतं रक्षितवतः तस्य तरुणस्य नाम 'शङ्कुकः' इत्येव ख्यातम् अभवत् । साहित्यशास्त्रक्षेत्रे तदीयं नाम प्रसिद्धम् अस्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A young man returned to his village after completing his studies. He began teaching, and his classes grew popular. Jealous teachers spread false rumors to keep students away. Unshaken, he taught wooden poles as if they were pupils. Soon, the villagers realized his dedication and the deceit of others. They asked him to teach their children, and his name Shankuka (“the one who taught stakes”) became famous in the world of literature.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.