बालमोदिनी

सरयूनद्याः उत्तरभागः गङ्गोली इति नाम्ना ख्यातः । दक्षिणभागश्च कुमू इति नाम्ना प्रसिद्धः । गङ्गोलीक्षेत्रवासिनः अतीव चतुराः कुमूक्षेत्रस्य जनाः सरलाः विनीताश्च भवन्ति । कदाचित् सरयूनद्याः तटे द्वयोः क्षेत्रयोः वृषभौ सम्मिलितौ । परिचयानन्तरं तयोः स्पर्धा प्रवृता यत् कः वृषभः‌ सरयूनद्याः जलम् अधिकं पातुं समर्थः इति । कुमूक्षेत्रस्य वृषभस्तु जलं पीत्वा पीत्वा किञ्चित्कालानन्तरम् अचेतनत्वं गतः । गङ्गोलीकक्षेत्रस्य वृषभः चतुरः आसीत् । सः जलं न अपिबत् । केवलं जलधारायां मुखं कृत्वा पानमुद्रायाम् अतिष्ठत् । सहसा तयोः रक्षकौ आगत्य तौ नीतवन्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

On the northern bank of the Sarayu River lies Gangoli, and on the southern bank lies Kumoo. The people of Gangoli are known for their cleverness, while those of Kumoo are simple and humble. Once, two bulls from these regions met at the riverbank. They began a contest to see which bull could drink more water from the Sarayu. The bull from Kumoo drank continuously until he collapsed unconscious. The bull from Gangoli, being clever, did not drink at all—he merely placed his mouth in the stream and pretended to drink. Soon, the keepers of the bulls arrived and took them away.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.