बालमोदिनी

हजरतनिजामुद्दीनस्य समीपं कश्चन निर्धनः आगत्य पुत्र्याः विवाहार्थं साहाय्यम् अयाचत । दिनद्वयानन्तरं हजरतः तस्मै निर्धनाय स्वीयां पादुकां अयच्छत् । निराशः सन् यदा सः निर्धनः‌ हजरतभक्तेन अमीरखुसरेण मार्गमध्ये प्राप्तः तदा अमीरखुसरेण कस्माच्चित् स्थानात् सुगन्धः अनुभूतः । सः सुगन्धः हजरतस्य पादुकातः आगच्छति इति ज्ञाते अमीरखुसरः स्वीयान् उष्ट्रान् प्रभूतं धनं च निर्धनाय दत्तवान् । सः निर्धनः अमीरखुसराय धन्यवादान् समर्प्य ततः निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A poor man went to Hazrat Nizamuddin and asked for help for his daughter's marriage. Two days later, Hazrat gave him his own sandals. Feeling disappointed, the poor man met Hazrat's devotee, Amir Khusro, on the way. Amir Khusro noticed a pleasant fragrance coming from somewhere. When he realized it was from Hazrat's sandals, he gave the poor man camels and a lot of money. The poor man thanked Amir Khusro and left.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.