बालमोदिनी

सुन्दरपुरनाम्नि ग्रामे कस्यचन कृषकस्य पुत्रः अनिलः अलसः युवकः निरुद्योगी सन् आदिनं मित्रैः सह इतस्ततः भ्रमन् आसीत् । कदाचित् सूर्यास्तसमये समीपस्थात् पर्वतात् अवरोहद्भिः  आरुह्यमाण: कश्चन वृद्धः लघुना दीपेन सह दृष्टः ।  आचर्येण यदा अनिलः अपृच्छत् तदा सः वृद्धः शिखरस्थं शिवालयं गन्तुम् इच्छामि इति अवदत् । तदनन्तरं यानि हितवचनानि वृद्धेन उक्तानि तानि वचनानि हासः च अनिलस्य मनसि मुहुर्मुहुः गुञ्जनम् अकुर्वन् । उद्यमस्य महत्त्वमपि अवगतं तेन । अपरेद्युः ब्राह्मे अहनि हलं गृहीत्वा गच्छन्तं पुत्रं दृष्ट्वा पित्रा आनन्दः अनुभूतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a village named Sundarpuri, there was a farmer’s son, Anil, who was a lazy and unemployed youth wandering around aimlessly with his friends. One evening at sunset, he noticed an elderly man descending from a nearby mountain with a small lamp. Out of curiosity, Anil asked him what he was doing. The elderly man replied that he wished to reach the Shiva temple located at the mountaintop. Subsequently, the wise words spoken by the elderly man left a profound impression on Anil. He also came to understand the importance of hard work. The very next day, his father was overjoyed to see Anil waking up early in the morning and heading out with a plow.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.