बालमोदिनी

'श्रमं विना निश्शुल्कं यत् प्राप्येत तत् न स्वीकरणीयम् । भगवान् हस्तपादं यत् दत्तवान् तस्य उपयोगेन जीवनं चिन्तनीयं, न तु निश्शुल्कं प्राप्यमाणस्य स्वीकरणे प्रवृत्तिः दर्शनीया' इति मातुः वचनानुसारं काचित् बालिका गुजरातप्रदेशे रविशङ्करमहाराजेन वितीर्यमाणं गुडं न स्वीकृतवती । बालिकायाः वचनम् आश्चर्येण शृण्वन् रविशङ्करः बालिकया सह गृहं गत्वा स्वाभिमानपाठं बोधितवतीं मातरं दृष्ट्वा नमस्कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
"Anything that is obtained without effort and free of cost should not be accepted. The life gifted to us by God, along with our hands and feet, should be used wisely, and not in accepting something for free," said a mother to her daughter. Following these words, a girl from Gujarat refused the jaggery being distributed by the great Ravishankar Maharaj. Astonished by the girl's words, Ravishankar went to her home, where he saw the mother who had imparted this lesson of self-respect to her daughter, and he bowed in respect.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.