बालमोदिनी

कदाचित् कश्चन गुरुः लवणेन वस्त्रेण शिलया च निर्मिताः तिस्रः प्रतिमाः जले निमज्जयन् तासां तत्त्वं बोधयति । शिलानिर्मिता प्रतिमा जले निमज्ज्य अपि अल्पमपि विकारं न प्राप्नोत् । केचन शिलाप्रतिमा इव । जलं ज्ञानम् इव । केचन ज्ञाने निमज्ज्य अपि स्वस्मिन् किमपि परिवर्तनं न प्राप्नुवन्ति अहङ्कारादिकारणतः । वस्त्रनिर्मिता प्रतिमा तु जलं स्वस्य अन्तः स्वीकरोति । तादृशाः ज्ञानं सम्पादयन्तः तदनुगुणम् आचरन्तः विकासमार्गे अग्रे गच्छन्ति । लवणनिर्मिता प्रतिमा यदा जले निमग्ना भवति तदा जले विलीना भवति । एतादृशाः भवन्ति ज्ञानिनः ये प्रतिदिनमपि ज्ञानम् अर्जयन्तः तदनुगुणम् आचरन्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A teacher once used three types of idols—made of stone, cloth, and salt—to explain the nature of learning. When immersed in water (symbolizing knowledge), the stone idol remained unchanged. Some people are like this: even when surrounded by wisdom, they remain unaffected due to ego or rigidity. The cloth idol absorbed the water. These are learners who take in knowledge and grow by applying it. The salt idol dissolved completely in water. Such people become one with knowledge, living it fully and transforming through it. True seekers are like the salt idol—humble, receptive, and ever-evolving.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.