बालमोदिनी

किं भवद्भिः ज्ञायते यत् अमृतात् जातः वृक्षः आम्रवृक्षः इति ? किन्तु कथं स्वर्णकुम्भात् अमृतबिन्दुः पतितः? गरुडेन कथम् अमृतबिन्दुः पातितः ? गानविद्याविलासिनी गन्धर्वकन्या मञ्जुला गरुडं यदा अनुसृतवती तदा किं जातम् ? विष्णोः शापेन मञ्जुला का अभवत् ? इति सर्वं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Do you know that the mango tree originated from ‘nectar of Gods’? But how did a drop of nectar fall from the golden vessel? How did Garuda cause the nectar drop to spill? When Manjula, the Gandharva maiden skilled in music and dance, followed Garuda, what happened? And what did she become due to Vishnu’s curse? Listen to the entire story to uncover these mysteries!

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.