बालमोदिनी

पुराकाले कलिङ्गराज्यम् अशोकः पालयति स्म । इयं कथा अशोकस्य तस्य मन्त्रिणः च मध्ये प्रचलिता घटना नाम । अनया घटनया अशोकः मन्त्रिणं दर्शयति यत् 'यावत् जीवामः तावदेव मनुष्यस्य मूल्यम् । जीवाभावे मनुष्यशरीरं व्यर्थमेव । अतः यावत् जीवामः तावत् सत्पुरुषाणां महात्मनां च पादकमलयोः शिरःस्थापनेन जीवनस्य धन्यता प्राप्तव्या अस्माभिः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Long ago, Ashoka ruled the Kalinga kingdom. This story narrates an incident between Ashoka and his minister. Through this event, Ashoka conveyed a profound truth: "A person's value exists only while they are alive. Without life, the human body is meaningless. Therefore, as long as we live, we must find fulfillment by humbly bowing to the feet of noble and great souls".

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.