बालमोदिनी

प्रारब्धम् ईश्वरेणापि निवारयितुं न शक्यते । आश्चर्यं ननु ? इयं कथा तस्याः उदाहरणम् अस्ति । कदाचित् शनिदेवः भगवतः शङ्करस्य समीपं गत्वा अवदत् 'श्वः ब्राह्मे मुहूर्ते अहं भवन्तं पीडयितुं ग्रहरूपेण आगमिष्यामि' इति । 'तथैव भवतु' इति अवदत् शिवः । शनिदेवस्य गमनान्तरं शिवः कञ्चन उपायं करोति । यद्यपि तेन उपायः कृतः तथापि शनिदेवस्य पीडातः विमुक्तिः न प्राप्ता ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Destiny cannot be prevented even by God. This story is an example. Once Shani Deva came to Lord Shiva and said: ‘Tomorrow at dawn I will come to afflict you in the form of a planet.’ Shiva replied, ‘So be it.’ After Shani left, Shiva tried certain means to avoid the affliction. Yet, despite his efforts, he could not escape Shani’s influence.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.